कादम्बरी /100
This page has been fully proofread once and needs a second look.
दानयाचनार्थमागताभिः सिंहीभिरिव [^१]कौलेयककुटुम्बिनी- भिरनुगम्यमानम्, [^२]कैश्चिद्गृहीतचमरबालगजदन्तभारैः कैश्चिदच्छिद्रपर्णबद्धमधुपुटैः कैश्चिन्मृगपतिभिरिव [^३]गजकुम्भमुक्ताफलनिकरसनाथपाणिभिः कैश्चिद्यातुधानैरिव गृहीत [^४]पिशितभारैः कैश्चित्प्रमथैरिव केसरिकृत्तिधारिभिः कैश्चित्क्षपणकैरिव मयूरपिच्छ [^५]धारिभिः कैश्चिच्छिशुभिरिव काकपक्षधरैः कैश्चित्कृष्णचरितमिव दर्शयद्भिः समुत्खात- विधृतगजदन्तैः कैश्चिज्जलदागमदिवसैरिव जलधरच्छाया [^६]मलिनाम्बरैरनेकवृत्तान्तैः शबरवृन्दैः परिवृतम्, अरण्यमिव सखङ्गधेनुकम्, अभिनवजलधरमिव मयूरपिच्छचित्रचापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम्, अरुणानुजमिवोद्धृतानेकमहाना-
गदशनम्, भीष्ममिव शिखण्डिशत्रुम्, निदाघदिवसमिव सतता- विर्भूतमृगतृ-
[ टि ]-- म्बिनीभिः [^1]श्वानपत्नीभिश्च सहेति भावः । शबरेति । शबरवृन्दैर्भिल्लसमूहैः परिवृतमावेष्टितम् । कीदृशैः ।
कैश्चिदिति । गृहीताः स्वीकृताश्चमराणां गवयानां बालाः केशाः गजानां दन्ताश्च तेषां भारः समूहो यैस्ते तथा तैः । कैश्चिदिति । अच्छिद्रपर्णैर्निबिडपत्रैर्बद्धानि मधुनः पुटानि यैस्ते तथा तैः । कैश्चिदिति । मृगपतिभिरिव सिंहैरिव गजानां हस्तिनां कुम्भाः शिरः पिण्डाः तेषां मुक्ताफलानि मौक्तिकानि तेषां निकरः समूहस्तेन सनाथः सहितः पाणिर्येषां ते तथा तैरित्यभङ्गश्लेषः । कैश्चिदिति । यातुधानैरिव राक्षसैरिव गृहीतः पिशितस्य मांसस्य भारो यैस्ते तथा तैः । अत्राप्यभङ्गश्लेषः । कैश्चिदिति । प्रमथैरिव पार्षदैरिव केसरिणां सिंहानां कृत्तयश्चर्माणि धरन्तीत्येवंशीलैस्तद्धारिभिः । कैश्चिदिति । क्षपणकैरिव दिगम्बरैरिव मयूराणां बर्हिणां
पिच्छानि छदानि धरन्तीत्येवंशीला धारिणस्तैः । भिल्ला अपि हृतमयूरपिच्छधारिणो भवन्तीति श्लेषः । कैश्चिदिति । शिशुभिरिव बालकैरिव काकपक्षः शिखण्डकस्तद्धारिभिः । भिल्लपक्षे काकानां [^2]सकृत्प्रजानां पक्षाश्छदास्तद्धारिभिः । कैश्चिदिति । कृष्णचरितं विष्णुविजृम्भितं दर्शयद्भिः प्रकाशयद्भिरिव पूर्वं समुत्खाताः सम्यक्प्रकारेणोत्पाटिताः पश्चाद्विशेषेण धृता गजदन्ता यैस्ते तथा तैः । कृष्णेनापि बाल्ये गज [^4]हननक्षण इत्थ-मेवाचरितमिति साम्यम् । कैश्चिदिति । जलदस्य मेघस्यागमो येष्वेवंविधैर्दिवसैर्वासरैरिव जलधरो मेघस्तस्य छायातपा- भावस्तद्वन्मलिनानि कश्मलाम्यम्बराणि वस्त्राणि येषां ते तथा तैः । पक्षे जलधरच्छायया मलिनमम्बरं व्योम येष्विति विग्रहः । अनेकेति । अनेके बहवो वृत्तान्ताश्चरित्राणि येषां ते तथा तैः । अरण्येति ।
अरण्यं वनं तद्वदिव । उभयोः सादृश्यमाह – सखङ्गेति । खङ्गः कौक्षेयको धेनुका कृपाणिका ताभ्यां सह वर्तमानम् । पक्षे खङ्गो वार्ध्रीणसः धेनुका वशा ताभ्यां युक्तमित्यर्थः । अभीति । अभिनवः प्रत्यग्रो यो जलधरो मेघस्तमिव मयूराणां पिच्छानि तद्वच्चित्रं विविधवर्णधारि यच्चापं धनुस्तद्धत्त इत्येवंशीलः स तथा तम् ।
पक्षे मयूरपिच्छवच्चित्रं चापमिन्द्रधनुस्तद्धारिणम् । बकेति । बकाभिधानो राक्षसो यातुधानस्तद्वदिव । उभयोः साम्यमाह - गृहीतेति । गृहीतं धृतमेकमद्वितीयं चक्रं येन स तम् पक्षे गृहीता स्वायत्तीकृतैकचक्राभिधाना पुरी येनेति विग्रहः । अरुणेति । अरुणानुजो गरुडस्तद्वदिव । उभयोरैक्यं प्रदर्शयन्नाह - उद्धृतेति । उद्धृता उत्पाटिता अनेकेषां महानागानां बहुमहाहस्तिनां दशना दन्ता येन स तथा तम् । पक्ष उद्धृता मुखान्निष्कासिता अनेक- महानागानां महाभोगिनां दशना दन्ता येनेति विग्रहः । भीष्मेति । भीष्मो गाङ्गेयस्तमिव । उभयोः सादृश्यमाह -- शिखण्डीति । शिखण्डिनो बर्हिणस्तेषां शत्रुम् । तद्वधकारित्वात् । पक्षे शिखण्डी पाण्डवपक्षीयो वर्षवरस्तस्य शत्रुं विपक्षम् । निदाघेति । निदाघो ग्रीष्मकालस्तस्य दिवस -
[^1 श्वपत्ती]F. श्वपत्नीभिरित्यर्थः । ।
[^2]F. वायसानाम् ।
[^3]F. कृष्णस्य लीलां ।
[^4]F. कुवलयापीडस्य हननोत्तरमित्यर्थः
पाठा० -[^१]G. कौलेय; कौलटेय.
STA[^२]GESPREY
i
६ मलिनैः.
२ आगृहीत.
[^३]G. विभिन्नगजकुम्भ.
[^४]G. पिशिताहारैः;
[^५]G. वाहिभिः.
[^६]G. मलिनैः.

[^1
[^2]F. वायसानाम् ।
[^3]F. कृष्णस्य लीलां ।
[^4]F. कुवलयापीडस्य हननोत्तरमित्यर्थः
STA
i
६ मलिनैः
२
[^४]G. पिशिताहारैः;