2023-10-24 12:51:08 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

cambole
 
शबरसेनापतिः ]
 
पूर्वभागः ।
 
६७
 
दानयाचनार्थमागताभिः सिंहीभिरिव [^१]कौलेयककुटुम्बिनी- भिरनुगम्यमानम्, [^२]कैश्चिंचिद्गृहीतच-
मरबालगजदन्तभारैः कैश्चिदच्छिद्रपर्णबद्ध मधुपुटैः कैश्चिन्मृगपतिभिरिव [^३]गजकुम्भमुक्ताफल-
निकरसनाथपाणिभिः कैश्चिद्यातुधानैरिव गृहीत [^४]पिर्शितभारैः कैश्चित्प्रमथैरिव केसरिकृत्तिधा-
रिभिः कैश्चित्क्षपणकैरिव मयूरपिच्छ [^५]धारिभिः कैश्चिच्छिशुभिरिव काकपक्षधरैः कैश्चित्कृ-
ष्णचरितमिव दर्शयद्भिः समुत्खात- विधृतगजदन्तैः कैश्चिज्जलदागमदिवसैरिव जलधरच्छा-
यामँ [^६]मलिनाम्बरैरनेकवृत्तान्तैः शबरवृन्दैः परिवृतम्, अरण्यमिव सखङ्गधेनुकम्, अभिनवजल-
धरमिव मयूरपिच्छचित्रचापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम्, अरुणानुजमिवोद्धृ-
तानेकमहाना-
गदशनम्, भीष्ममिव शिखण्डिशत्रुम्, निदाघदिवसमिव सतता- विर्भूतमृगतृ-

 
[ टि ]--
म्बिनीभिः [^1]श्वानेपत्नीभिश्च सहेति भावः । शबरेति । शबरवृन्दैर्भिल्लसमूहैः परिवृतमावेष्टितम् । कीदृशैः ।

कैश्चिदिति । गृहीताः स्वीकृताश्चमराणां गवयानां बालाः केशाः गजानां दन्ताश्च तेषां भारः समूहो यैस्ते
तथा तैः । कैश्चिदिति । अच्छिद्र पर्णैर्निबिडपत्रैर्बद्धानि मधुनः पुढाटानि यैस्ते तथा तैः । कैश्चिदिति ।
मृगपतिभिरिव सिंहैरिव गजानां हस्तिनां कुम्भाः शिरः पिण्डाः तेषां मुक्ताफलानि मौक्तिकानि तेषां निकरः
समूहस्तेन सनाथः सहितः पाणिर्येषां ते तथा तैरित्यभङ्गश्लेषः । कैश्चिदिति । यातुधानैरिव राक्षसैरिव गृहीतः
पिशितस्य मांसस्य भारो यैस्ते तथा तैः । अत्राप्यभङ्गश्लेषः । कैश्चिदिति । प्रमथैरिव पार्षदैरिव केसरिणां
सिंहानां कृत्तयश्चर्माणि धरन्तीत्येवंशी लैस्तद्धारिभिः । कैश्चिदिति । क्षपणकैरिव दिगम्बरैरिव मयूराणां बर्हिणां

पिच्छानि छदानि धरन्तीत्येवंशीला धारिणस्तैः । भिल्ला अपि हृतमयूरपिच्छधारिणो भवन्तीति श्लेषः । कैश्चि-
दिति । शिशुभिरिव बालकैरिव काकपक्षः शिखण्डकस्तद्धारिभिः । भिल्लपक्षे काकानां [^2]सकृत्प्रजानां पक्षाश्छ-
दास्तद्धारिभिः । कैश्चिदिति । कृष्णचरितं विष्णुविजृम्भितं दर्शयद्भिः प्रकाशयद्भिरिव पूर्वं समुत्खाताः
सम्यक्प्रकारेणोत्पाटिताः पश्चाद्विशेषेण धृता गजदन्ता यैस्ते तथा तैः । कृष्णेनापि बाल्ये गज [^4]हननक्षण इत्थ-
मेवाचरितमिति साम्यम् । कैश्चिदिति । जलदस्य मेघस्यागमो येष्वेवंविधैर्दिवसैर्वासरैरिव जलधरो मेघस्तस्य
छायातपा- भावस्तद्वन्मलिनानि कश्मलाम्यम्बराणि वस्त्राणि येषां ते तथा तैः । पक्षे जलधरच्छायया मलिन-
मम्बरं व्योम येष्विति विग्रहः । अनेकेति । अनेके बहवो वृत्तान्ताश्चरित्राणि येषां ते तथा तैः । अरण्येति ।

अरण्यं वनं तद्वदिव । उभयोः सादृश्यमाह – सखङ्गेर्ति । खङ्गः कौक्षेयको धेनुका कृपाणिका ताभ्यां सह-
वर्तमानम् । पक्षे खङ्गो वाघ्रर्ध्रीणसः धेनुका वशा ताभ्यां युक्तमित्यर्थः । अभीति । अभिनवः प्रत्यग्रो यो
जलधरो मेघस्तमिव मयूराणां पिच्छानि तद्वञ्च्चित्रं विविधवर्णधारि यच्चापं धनुस्तद्धत्त इत्येवंशीलः स तथा तम् ।

पक्षे मयूरपिच्छवच्चित्रं चापमिन्द्रधनुस्तद्धारिणम् । बकेति । बकाभिधानो राक्षसो यातुधानस्तद्वदिव । उभयोः
साम्यमाह - गृहीतेति । गृहीतं धृतमेकमद्वितीयं चक्रं येन स तम् पक्षे गृहीता स्वायत्तीकृतैकचक्राभिधा
ना पुरी येनेति विग्रहः । अरुणेति । अरुणानुजो गरुडस्तद्वदिव । उभयोरैक्यं प्रदर्शयन्नाह - उद्धृतेति ।
उद्धृता उत्पाटिता अनेकेषां महानागानां बहुमहाहस्तिनां दशना दन्ता येन स तथा तम् । पक्ष उद्धृता
मुखान्निष्कासिता अनेक- महानागानां महाभोगिनां दशना दन्ता येनेति विग्रहः । भीष्मेति । भीष्मो
गाङ्गेयस्तमिव । उभयोः सादृश्यमाह -- शिखण्डीति । शिखण्डिनो बर्हिणस्तेषां शत्रुम् । तद्वधकारित्वात् ।
पक्षे शिखण्डी पाण्डवपक्षीयो वर्षवरस्तस्य शत्रुं विपक्षम् । निदाघेति । निदाघो ग्रीष्मकालस्तस्य दिवस -
टिप्प० -

 
1 श्वपत्तीभिरित्यर्थः ।
2 वायसानाम् ।
इननोत्तरमित्यर्थः ।
 

3 कृष्णस्य लीलां ।
 

4 कुवलयापीडस्य
 
हननोत्तरमित्यर्थः
 
पाठा० -१ कौलेय; कौलटेय.
 

 
STAGESPREY
 

 
i
 

 
६ मलिनैः.
 

 
२ आगृहीत.
 

 
३ विभिन्नगजकुम्भ. ४ पिशिताहारैः;
 

 
५ वाहिभिः.