कादम्बरी /10
This page has been fully proofread twice.
एव तेषां मतालोचनमनावश्यकमिव । ते हि 'दण्डिनः पदलालित्यम्' इत्याभाणकं श्रुत्वैव तथा जल्पन्ति । किन्तु बाणात्पूर्वं तदिदं सूक्तं कदाचित्संघटितं स्यात् । कादम्बरीसंमुखे तु सेयमुक्ति: 'श्रोतुर्वितन्त्रीरिव ताड्यमाना' । तत्रापि कथाकल्पनबाहुल्यम्, वर्णने विशेषणानामनाधिक्यात्कथा- निर्वाहसौकर्यम्, इत्यादिगुणश्चेद्दण्डिनः ( दशकुमारचरितस्य ) गीयेत तदपि स्वात्सह्यम् । किन्तु पदलालित्यमादाय बाणापे-
क्षया दण्डी चेदुत्कृष्यते तर्हि समाप्ता काव्यपरीक्षा । न केनचिद्रचनामर्मविदा तदिदं कथंचिन्मृष्येत ।
'स्वर्लोकशिखरोरुरुचिररत्नरत्नाकरवेलामेखलायितधरणीरमणीसौ-भाग्यभोगभाग्यवान्, शरदिन्दुकुन्दघनसारनीहारहारमृणालमराल सुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशनीकाशमूर्त्या रचितदिगन्तरालपूर्त्या कीर्त्याऽभितः सुरभितः, ( राजहंसो, नाम भूपो बभूव ) ।' इत्यादिपदबलेनैव किं दण्डी बाणं विजयेत ? एवंविधोत्कलिकाप्रायगद्यलेखे हि सिद्धहस्तो बाणः । स्थाने स्थाने च दत्तः परिचयस्तस्य, कियद्वा इहोल्लिख्यताम् ? किन्तु 'कथाकाव्यम्' वर्तमानकालिक' उपन्यास Novel' स्थानीयमिति न विस्मर्तव्यं स्यात् । अत एवात्र प्राक्तनसाहित्यकारकृत 'कथाख्यायिका'लक्षणानुरोधेन दीर्घसमासताद्योजोगुणस्पर्शेऽपि माधुर्यमेकान्तत एव न गलहस्तयितव्यं भवेत् ।मधुराक्षरैरेवोपनिबद्धा कथा सहृदयानां हृदि दृढतरं पदमादधातीति स्वाभाविकी वार्ता । बाणश्च नेदं क्षणमपि विस्मरति । अत एव दीर्घसमासतायामपि द्वीपान्तरागतानेकभूमिपाल- मौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्वहन्...( शुद्रकः प्रथमे वयसि सुखमतिचिरेमुवास )" इत्यादिमधुरतरैरक्षरैरुपनिबध्नाति । द्वयोरपि राजवर्णना-
क्षरेषु माधुर्यस्य कियत्तारतम्यमिति सहृदयानां हृदयमेव साक्षि ।
किञ्च दृश्यताम् – एकमात्रं पद्यं यथा रसस्य कस्यचित्प्रकटनाय प्रभवति तथा गणस्य एकमात्रं वाक्यरसस्य परिपोषे प्रभवेदिति न यत्रकुत्रचिदृश्येत । बाणस्यैव लेखनी तदेतस्मिन्प्रकर्षे प्रभवति । विन्ध्याटव्यामगस्त्याश्रमवर्णने आह - 'अधुनापि यत्र जलघधरसमये गम्भीरमभिनवजलधरनिवह निनादमाकर्ण्य भगवतो रामस्य त्रिभुवनविवरव्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति शष्पकवलमजस्रमश्रुजललवलुलितदृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः । (पृ. ४६ )
अनेन हि कारुण्यार्द्रं हृदयं भवति न वेति कश्चित्सहृदयःपृच्छ्यताम् । 'जललवलुलितदृष्टयो वीक्ष्य शून्या दश दिशः' इत्यनेन मृगाणां कीदृशं प्रत्यक्षं प्रणयदैन्यं चित्रितम् ?
अन्यदप्यालोक्यताम् – 'तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्ततरलतारको विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षि
पन् , उच्छुष्कतालुरात्मप्रतीकाराऽक्षमस्त्रासस्रस्तसंधिशिथिलेन पक्षसंपुटेनाच्छाद्य मां तत्कालोचितं प्रतीकारं मन्यमानः, स्नेहपरवशो मद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभागेन मामवष्टभ्य तस्थौ ।' ( पृ. ७२ ) अत्र हि मुमूर्षतो जराजीर्णस्य शुकस्य निजशावकोपरि कीदृशमसामान्यं वात्सल्यमङ्कितम् ।
हास्यरसस्याऽवतारणं यथा जरद्द्रविडधार्मिकवर्णने– 'असकृ- दभिमन्त्रितसिद्धार्थकाहतिधावितैः पिशाचगृहीतकैः करतलताडन- निबिडीकृतश्रवणनासापुटेन [ पिशाचाविष्टानामुपरि अभिमन्त्रितान् सर्षपान्यथैवायं विकिरति तथैवैते धावित्वाऽस्य श्रवणयोर्नासिकायां च चपेटां प्रददति येन चिपिटीकृतश्रवणनासिकोऽयम् ], दिवसमेव मशकक्वणितानुकारि किमपि कम्पितोत्तमाङ्गं गायता, गृहीततुरगब्रह्मचर्यतयाऽन्यदेशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन [ अनेन घोटकवत् प्रतिबन्धवशादेव ब्रह्मचर्यं गृहीतं न तु वास्तवम् । अत एव याः प्रदेशाऽऽगता जरत्संन्यासिन्यस्तद्दुर्गामन्दिरे रात्रौ निवसन्ति तदुपरि जरद्द्रविडधार्मिकमहाभागो वशीकरणचूर्णस्य प्रयोगं करोति ! ], असकृदुत्सन्नदेवमातृगृहवास्यृक्षनखजर्जरितकपोलेन
[अलीककामुकत्वाभिनयवशात् अभिसारलील्या आरण्यकेषु निर्जनभग्नदेवगृहेषु महाभागोऽयं प्रविशति यत्र हि तद्गृहवासिभिर्ऋक्षैः शतशोऽयं जर्जरितकपोलो जाता ],
शतशः श्रीफलतरुशिखरच्युतिचूर्णितोसमाङ्गेन [ लोलुपतया बिल्वफलाहरणाय तद्वृक्षमारोहति । चापल्य
कादंबरी प्र० २
क्षया दण्डी चेदुत्कृष्यते तर्हि समाप्ता काव्यपरीक्षा । न केनचिद्रचनामर्मविदा तदिदं कथंचिन्मृष्येत ।
'स्वर्लोकशिखरोरुरुचिररत्नरत्नाकरवेलामेखलायितधरणीरमणीसौ-भाग्यभोगभाग्यवान्, शरदिन्दुकुन्दघनसारनीहारहारमृणालमराल सुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशनीकाशमूर्त्या रचितदिगन्तरालपूर्त्या कीर्त्याऽभितः सुरभितः, ( राजहंसो, नाम भूपो बभूव ) ।' इत्यादिपदबलेनैव किं दण्डी बाणं विजयेत ? एवंविधोत्कलिकाप्रायगद्यलेखे हि सिद्धहस्तो बाणः । स्थाने स्थाने च दत्तः परिचयस्तस्य, कियद्वा इहोल्लिख्यताम् ? किन्तु 'कथाकाव्यम्' वर्तमानकालिक' उपन्यास Novel' स्थानीयमिति न विस्मर्तव्यं स्यात् । अत एवात्र प्राक्तनसाहित्यकारकृत 'कथाख्यायिका'लक्षणानुरोधेन दीर्घसमासताद्योजोगुणस्पर्शेऽपि माधुर्यमेकान्तत एव न गलहस्तयितव्यं भवेत् ।मधुराक्षरैरेवोपनिबद्धा कथा सहृदयानां हृदि दृढतरं पदमादधातीति स्वाभाविकी वार्ता । बाणश्च नेदं क्षणमपि विस्मरति । अत एव दीर्घसमासतायामपि द्वीपान्तरागतानेकभूमिपाल- मौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्वहन्...( शुद्रकः प्रथमे वयसि सुखमतिचिरेमुवास )" इत्यादिमधुरतरैरक्षरैरुपनिबध्नाति । द्वयोरपि राजवर्णना-
क्षरेषु माधुर्यस्य कियत्तारतम्यमिति सहृदयानां हृदयमेव साक्षि ।
किञ्च दृश्यताम् – एकमात्रं पद्यं यथा रसस्य कस्यचित्प्रकटनाय प्रभवति तथा गणस्य एकमात्रं वाक्यरसस्य परिपोषे प्रभवेदिति न यत्रकुत्रचिदृश्येत । बाणस्यैव लेखनी तदेतस्मिन्प्रकर्षे प्रभवति । विन्ध्याटव्यामगस्त्याश्रमवर्णने आह - 'अधुनापि यत्र जल