This page has not been fully proofread.

उपोद्धातः ।
 
एव तेषां मतालोचन मनावश्यकमिव । ते हि 'दण्डिनः पदलालित्यम्' इत्याभाणकं श्रुत्वैव तथा जल्पन्ति ।
किन्तु बाणात्पूर्व तदिदं सूक्तं कदाचित्संघटितं स्यात् । कादम्बरीसंमुखे तु सेयमुक्ति: 'श्रोतुर्वितत्रीरिज
ताड्यमाना' । तत्रापि कथाकल्पनबाहुल्यम्, वर्णने विशेषणानामनाधिक्या कथा निर्वाहसौकर्यम्, इत्या-
दिगुणश्चेद्दण्डिनः ( दशकुमारचरितस्य ) गीयेत तदपि स्वात्सह्यम् । किन्तु पदलालित्यमादाय बाणापे-
क्षया दण्डी चेदुत्कृष्यते तर्हि समाप्ता काव्यपरीक्षा । न केनचिद्रचनामर्मविदा तदिदं कथंचिन्सृष्येत ।
'स्वलों कशिखरो रु रुचिररत्नर जाकर बेला मेखलायित धरणीरमणीसौभाग्यभोगभाग्यवान्, शरदिन्दुकुन्द- -
घनसारनीहारहारमृणालमरालसुरगजनीरक्षीर गिरिशाहहासकैलासकाशनीकाशमूर्त्या रचितदिगन्तराल
पूर्त्या कीर्त्याऽभितः सुरभितः, ( राजहंसो, नाम भूपो बभूव ) ।' इत्यादिपदबलेनैव किं दण्डी बाणं
विजयेत ? एवंविधोत्कलिकाप्रायगद्यलेखे हि सिद्धहस्तो वाणः । स्थाने स्थाने च दत्तः परिचयस्तस्य, कियद्वा
इहोल्लिख्यताम् ? किन्तु 'कथाकाव्यम्' वर्तमानकालिक' उपन्यास Novel' स्थानीयमिति न विस्मर्तव्यं
स्यात् । अत एवात्र प्राक्तनसाहित्यकारकृत 'कथाख्यायिका'लक्षणानुरोधेन दीर्घसमासताद्योजोगुणस्पर्शे-
sपि माधुर्य मेकान्तत एव न गलहस्तयितव्यं भवेत् । मधुराक्षरैरेवोपनिबद्धा कथा सहृदयानां हृदि दृढतरं
पदमादधातीति स्वाभाविकी वार्ता । बाणश्व नेदं क्षणमपि विस्मरति । अत एव दीर्घसमासतायाभपि
द्वीपान्तरागतानेक भूमिपालमौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्दद्दन्...
( शुद्रकः प्रथमे वयसि सुखमति चिरेमुवास )" इत्यादिमधुरतरैरक्षरैरुपनिबध्नाति । द्वयोरपि राजवर्णना-
क्षरेषु माधुर्यस्य कियत्तारतम्यमिति सहृदयानां हृदयमेव साक्षि ।
 
-
 
किञ्च दृश्यताम् – एकमात्रं पथं यथा रसस्य कस्यचित्प्रकटनाय प्रभवति तथा गणस्य एकमात्रं वाक्य
रसस्य परिपोषे प्रभवेदिति न यत्रकुत्रचिदृश्येत । बाणस्यैव लेखनी तदेतस्मिन्त्रकर्षे प्रभवति । विन्ध्या-
डव्यामगस्त्याश्रमवर्णने आह - 'अधुनापि यत्र जलघरसमये गम्भीरमभिनवजलधरनिवह निनादमाकर्ण्य
• भगवतो रामस्य त्रिभुवन विवरव्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति शष्पकवलमजसमभुजललबलुलि-
तदृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः । (पृ. ४६ )
अनेन हि कारुण्याई हृदयं भवति न वेति कश्चित्सहृदयः पृच्छ्यताम् । 'जललवलुलितदृष्टयो वीक्ष्य
शून्या दश दिशः' इत्यनेन मृगाणां कीदृशं प्रत्यक्षं प्रणय दैन्यं चित्रितम् ?
 
अन्यदप्यालोक्यताम् – 'वातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपलवमुपगतमालोक्य
द्विगुणतरोपजातवेपथुर्मरणभयादुन्द्रान्ततरलतारको विषादशून्यामश्रुजलश्रुतां दृशमितस्ततो दिक्षु विक्षि
पनू, उच्छुष्कतालुरात्मप्रतीकाराऽक्षमस्त्रासस्नस्तसंधिशिथिलेन पक्षसंपुटेनाच्छाथ मां तत्कालोचितं प्रती-
कारं मन्यमानः, स्नेहपरवशो मद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभागेन मामवष्टभ्य तस्थौ ।'
( पृ. ७२ ) अत्र हि मुमूर्षतो जराजीर्णस्य शुकय निजशावकोपरि कीदृशमसामान्यं वात्सल्य मङ्कितम् ।
हास्यरसस्याऽवतारणं यथा जरग विडधार्मिक वर्णने– 'असक्वदभिमन्त्रित सिद्धार्थ काहतिघावितैः पिशा-
चगृहीतकैः करतलताडन निबिडीकृतश्रवणनासापुटेन [ पिशाचाविष्टानामुपरि अभिमन्त्रितान् सर्षपान्यथै-
वायं विकिरति तथैवैते धावित्वाऽस्य श्रवणयोर्नासिकायां च चपेटां प्रददति येन चिपिटीकृतश्रवणनासि-
कोऽयम् ], दिवसमेब मशककणितानुकारि किमपि कम्पितोत्तमाङ्गं गायता गृहीततुरगब्रह्मचर्यतयाऽन्य-
देशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीचशीकरणचूर्णेन [ अनेन घोटकवत् प्रतिबन्धवशा-
देव ब्रह्मचर्य गृहीतं न तु वास्तवम् । अत एव याः प्रदेशाता जरत्संन्यासिन्यस्तदुर्गामन्दिरे रात्रौ
निवसन्ति तदुपरि जरद्भविडधार्मिक महाभागो वशीकरणचूर्णस्थ प्रयोग करोति ! ], असकृदुत्सन्न देवमा-
तृगृहवास्यूक्षनखजर्जरितकपोलेन [ भलीककामुकत्याभिनयवशात् अभिसारलील्या आरण्यकेषु निर्जन
भग्नदेवगृहेषु महाभागोऽयं प्रविशति यत्र हि तद्गृहवासिभिर्ऋक्षैः शतशोऽयं जर्जरितकपोलो जाता ],
शतशः श्रीफलसरुशिखरच्युतिचूर्णितोसमाङ्गेन [ लोलुपतया बिल्वफलाहरणाय सद्वृक्षमारोहति । चापल्य
कादंबरी प्र० २