This page has not been fully proofread.

सप्तमः सर्गः
 
पुरन्ध्रवर्गैर्निबिडेवगार-
द्वारेषु नीराजनपात्रहस्तैः ।
संपूर्णकुम्भासु सदीपिकासु
प्रतोलिकापार्श्ववितर्दिकासु ॥ ५५ ॥
 
पक्षे वलर्क्षे दिवसे शुभंया
 
युक्ते तिथावुत्तरफल्गुनभिः ।
मुहूर्तविद्भिर्विहिते च शुद्ध-
जामित्रिके सन्निहित मुहूर्त ॥ ५६ ॥
 
निजादगारान्निरगाददन-
'
 
मभ्रं विभिन्दन् पटहस्वनेन ।
 
राजा सुतानां तरसा विवाह
 
निर्वर्तयिष्यन् मनुवंशदीपः ॥ ५७ ॥
 
पुत्रैः कलत्रैश्च पुरोहितैश्च
 
मित्रैस्तथा बन्धुजनैः परीतः ।
 
अलङ्कृतां तां पुरमीक्षमाणः
 
(चक्कलकम् )
 
स मैथिलस्यालयमाससाद ॥ ५८ ॥
 
स तत्र काश्चिन्निबिडा जनौघैः
 
क्रमेण कक्ष्याः समतीत्य गच्छन् ।
चक्षूंषि मुष्णन्तमिवात्मभासा
 
वैवाहिकं मण्डपमालुलोके ॥ ५९ ॥
 
९१