This page has not been fully proofread.

जानकीपरिणये
 
नीलाइमरश्मिच्छुरितो नितम्ब-
स्पर्शात सरोमाञ्च इवाबभासे ॥ ४९ ॥
 
चकार काचिञ्चरणारविन्द-
इन्द्रं तुलाकोटियुतं तदीयम् ।
समानवस्त्वन्तरदुर्विधत्वात्
 
तथापि तन्निस्तुलतां प्रपेदे ॥ ५० ॥
 
सखीजनैर्या निजरूपवेप-
विलोकनेनानिशमार्जिताभूत् ।
 
आत्मानमादर्शतले सभूष-
मालोक्य तां प्रीतिमवाप सीता ॥ ५१ ॥
 
तथापरासामपि कन्यकानां
 
निर्वर्तिताभ्यञ्जनमज्जनानाम ।
 
आसज्जितानि प्रमदाभिरासन्
 
गात्रेषु नानामणिभूषणानि ॥ ५२ ॥
 
विभूषणश्रेणिविराजिताभि-
स्ताभिर्धरित्रीदुहिता परीता ।
 
रसालवल्लीव बभौ लताभि-
मधौ प्रसूनावलिशालिनीभिः ॥ ५३ ॥
 
जलोक्षितासूभयपार्श्वदेश-
निखातरम्भाक्रमुकद्रुमासु ।
 
मरुञ्चलच्चेलपताकिकासु
 
वीथीषु दीव्यन्मणितोरणासु ॥ ५४ ॥