This page has not been fully proofread.

८८
 
जानकीपरिणये
 
प्रसाधिकाभिः प्रतिकर्म कर्तु-
मन्तः पुरेऽभूयत सङ्गताभिः ॥ ३८ ॥
 
अभ्यज्य तैलेन सुगन्धिनाने
 
सीताजनिष्ट स्त्रपिता वधूभिः ।
 
पतिव्रताभिः शुचिना जलेन
 
क्षोणीव वर्षासु घनावलीभिः ॥ ३९ ॥
 
स्नात्वा दुकूलं विशदं वसाना
 
सा प्रामुखी भास्वररत्नपीठे ।
निवेशिता भूषयितुं वधूभिः
 
सपत्यपत्याभिरशोभतोच्चैः ॥ ४० ॥
 
तदङ्गसङ्गे सति भूषणानां
 
शोभाविशेषो भवितेति वध्वः ।
 
आसज्जयामासुरनल्पशोभे
 
गात्रे तदीये किल भूषणानि ॥ ४१ ॥
 
अङ्गे तदीये हरितालगौरे
 
मवेदलक्ष्या तपनीयभूषा ।
 
इति स्त्रियस्ताः परभागभाभि-
रभूषयन् रत्नविभूषणैस्ताम् ॥ ४२ ॥
 
पित्रादरेण प्रहितं मणि सा
 
चूडापदे राजसुता बभार ।
 
प्रदाहशक्तिप्रतिबन्धकत्वं
 
रामस्य यो यास्यति शोकवः ॥ ४३ ॥