This page has not been fully proofread.

सतमः सर्गः ।
 
वसूनि रत्नानि वराम्बगणि
 
ददौ गवां लक्षचतुष्टयं च ॥ ३३ ॥
 
करोल्लसत्कौतुकसूत्रबन्धाः
 
कालाञ्जनोद्भासितलोचनाब्जा: '
 
शरतुषारांशुमयूखरेखा-
विपाण्डरान क्षौमपटान् वमानाः ॥ ३४ ॥
 
काश्मीरजन्मागुरुगन्धसार-
कस्तूरिकापङ्कविलिप्तगात्राः ।
 
माणिक्यमुक्तागरुडाश्मवज्र-
वैदूर्यनीलोत्पलभूषिताङ्गाः ॥ ३५ ॥
 
कुरङ्गनाभीतिलकानुबन्ध-
तरङ्गितश्रीकविशालफालाः ।
 
निबद्धचूडामणय: सहार-
केयूरहस्ताभरणाङ्गुलीयाः ॥ ३६ ॥
 
नरेन्द्रपुत्रा निजदृष्टिसृष्टि-
फलं भजन्ति स्म मनोभवाभाः ।
 
आत्मानुबिम्बं मुकुरेषु दर्श-
दर्श विवाहोचितचारुवेषाः ॥ ३७ ॥
 
न भूषिता यावदमी कुमारा-
( चकलकम् )
 
स्तावद् विदेहाधिपकन्यकानाम् ।