This page has not been fully proofread.

जानकीपरिणये
 
सम्बन्धतो या भविता भवद्भ्यां
कुलस्य भानोर्महती प्रतिष्ठा ।
नाभूदुदन्वत्खननाखिलस्व-
प्रदानगङ्गानयनादिभिः सा ॥ २८ ॥
 
इति ब्रुवन्तं मिथिलाबिडौजाः
सखायमूचे वलशासनस्य ।
न वक्तुमित्थं नरपाल ! युक्तं
 
महाकुलीनस्य महीयसस्ते ॥ २९ ॥
 
सम्बन्धमिच्छन्ति समस्तभूपाः
 
साकं त्वया सत्कुलसम्भवेन ।
 
मया स लब्धो निधिराद्रियेत
 
न कैर्भजेत् कश्चन भाग्यतस्तम् ॥ ३० ॥
 
विधाय गोदानविधिं सुतानां
 
श्वः प्रातरागत्य सबन्धुवर्गः ।
 
निर्वर्तयैषां विधिवद् विवाह-
महोत्सवं राजशिखामणे ! त्वम् ॥ ३१ ॥
 
इत्थं वदन्तं मिथिलाधिराज-
मापृच्छय राजा स निजोपकार्याम् ।
 
भेजे पुरस्कृत्य गुरुं रघूणा-
डम
 
मानन्दरत्नाकरमग्नचेताः ॥ ३२ ॥
 
गोदानकर्माकलयत् सुतानां
 
धराधिराजो धरणीसुरेभ्यः ।