This page has not been fully proofread.

सप्तमः सर्गः ।
 
पुरोधसा गाधिभुवा च साकं
 
विवेश तिग्मांशुकुलप्रदीपः ॥ २२ ॥
 
मुनिइये विष्टरभाजि तस्मिन्
रघुप्रवीरस्तदनुज्ञयागत् ।
 
तेन प्रदिष्टं क्षितिवल्लभेन
 
रत्नासनं भास्वरमध्यतिष्ठत् ॥ २३ ॥
 
महर्षिणा ब्रह्मभुवा रघूणां
 
वंशावलौ संसदि कीर्तितायाम् ।
 
विदेहराजः कथितात्मवंश-
क्रमो रघूणामृषभं बभाषे ॥ २४ ॥
 
भवत्सुतो भग्नपुरारिचापो
 
गृह्णातु सीताकरमेष रामः ।
 
अथोर्मिलापाणिमये नरेन्द्र !
 
गृह्णातु पुत्रस्तव लक्ष्मणोऽपि ॥ २५ ॥
 
इतीरितायां गिरि मैथिलेन
 
कुशध्वजो राघवमाबभाषे ।
दिशामि काञ्चिद् भरताय कन्या-
मन्यां कनिष्ठाय च लक्ष्मणस्य ॥ २६ ॥
 
इति प्रतिज्ञामुभयोर्निशम्य
प्रीतो बभाषे रघुनन्दनस्तौ ।
अद्यास्मि धन्योऽहमियान् भवद्भ्यां
 
प्रदर्शितो यन्मयि पक्षपातः ॥ २७ ॥