This page has not been fully proofread.

जानकीपरिणये
 
साधे वसिष्ठेन समं वधूभि-
स्तमागतं साकमनीकिनीभिः ।
 
प्रत्युज्जगाम प्रमदोत्तरङ्गः
 
पुरस्सरस्तत्त्वविदां नरेन्द्रः ॥ १७ ॥
 
प्राप्तौ चिरादर्शनजं प्रहर्ष
 
विदेहराजोत्तरकोसलेन्द्रौ ।
 
परस्परं तौ परिषस्वजाते
 
सदेहबन्धावित्र मोक्षधर्मों ॥ १८ ॥
 
अथार्घ्यपाद्यप्रमुखामशेषां
 
पूजां प्रणीतां सपुरोहितेन ।
 
विदेहभूमीपतिना वसिष्ठः
 
प्रत्यग्रहीद् ब्रह्मविदां वरिष्ठः ॥ १९ ॥
 
विदेहराजो निजराजधानी
 
प्रावेशयत् प्राग्रसरं रघूणाम् ।
 
सतोरणाली जलसिक्तराज-
पथां नभस्वत्प्रचलत्पताकाम् ॥ २० ॥
 
तत्रोपकार्या विविधोपदाभिः
 
पूर्णा प्रदिष्टां मिथिलाधिपेन ।
 
वितानसंशोभितकायमानां
 
रघुप्रवीरः सुखमध्युवास ॥ २१ ॥
 
अधिष्ठितां ब्रह्मविदां समूहैः
 
सभां प्रभाते मिथिलेश्वरस्य ।