This page has not been fully proofread.

सप्तमः सर्गः ।
 
नीहारजालेन समं समन्तात्
 
सान्द्रं तमिस्रं शमयन्नुदेति ॥ ११ ॥
 
अलक्तकस्यैव रसैः प्रसिक्ता
 
लिप्तेव पङ्गैर्नवकुङ्कुमानाम् ।
 
कीर्णेव पूर्वाचलधातुचूर्णै:
 
प्राची नवैरर्ककरैर्विभाति ॥ १२ ॥
 
बालातपेनोषसि रूषितानि
 
विभान्ति पङ्केरुहकाननानि ।
क्रीडद्रमापादतलच्युतेन
 
लाक्षारसेनेव समुक्षितानि ॥ १३ ॥
 
न केवलं योजयति प्रियाभि-
श्रकान् प्रभाते सविता वियुक्तान् ।
अपि द्विरेफानरविन्दकोशाद्
 
विमोचितानंशुविधूतनिद्रात् ॥ १४ ॥
 
इति प्रजानामधिपो वचोभि-
वैतालिकानां गतसुप्तिरासीत् ।
प्रातः सरोजं कुमुदाद् गतानां
 
खैरलीनामिव राजहंसः ॥ १५ ॥
 
उत्थाय तल्पादुषसि क्षितीशो
 
निर्वर्त्य सन्ध्यानियमं समस्तम् ।
रथं समास्थाय रयादयासीत्
 
पुरीं विदेहेन्द्रभुजाभिगुप्ताम् ॥ १६ ॥
 
८३