This page has not been fully proofread.

८२
 
जानकीपरिणये
 
उद्यन्ननूरुः प्रसभं तमिस्रं
दूरे समुत्सारयति क्षणेन ।
अम्भोनिधेरम्भ इव प्रयुक्तः
 
पुरा कुठारो भृगुनन्दनेन ॥ ६ ॥
 
यावन्न सृष्टं निखिलं तमोऽर्क-
सूतेन यावन्न बहिर्जनेन ।
विनिर्गतं तावदलम्भि गेहं
 
सङ्केतदेशादभिसारिकाभिः ॥ ७ ॥
 
सगीति मनन्ति दधीनि गोप-
वध्वश्चलत्केशगलत्प्रसूनाः ।
 
मुहुर्मुहुः स्रस्तकुचोत्तरीयाः
 
कराग्रवाहलयावलीकाः ॥ ८ ॥
 
विनिद्रपङ्केरुहसान्द्रगन्ध-
धुरन्धरो नर्तितवल्लरीकः ।
 
आचान्तकान्तासुरतान्तजात-
स्वेदोदको वाति विभातवातः ॥ ९ ॥
 
त्रयीमयं सुप्तसमस्तलोक-
चैतन्यसंपादनजागरूकम् ।
द्विजव्रजैराकलितार्घ्यमुच्चै-
रैन्द्रीं दिशं ज्योतिरलङ्करोति ॥ १० ॥
 
अम्भोरुहैः सार्धमशीतभानु-
रुन्मीलयल्लोकविलोचनानि ।