This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
जानकीपरिणयः ।
 
सन्ततं दृढसंसक्तं वन्दे इन्हं चिरन्तनम् ।
आदर्शे केवलं पश्यदाननाभः परस्परम् ॥ १ ॥
ऐक्यं भजेते भुवनेप्वर्थतः शब्दतश्च यौ ।
भूयास्तामनिशं तौ में भूयसे श्रेयसे शिवौ ॥ २ ॥
गजरत्नं चिरत्नं तदद्भुतं श्रेयसेऽस्तु यत् ।
[^*]पञ्चाननो लालयति [^२]क्षोणीभृद्भूगुहाश्रयः ॥ ३ ॥
क्षमाभिनन्दितौ श्यामानसूयाविभूपितौ ।
जनकानन्दनौ वन्दे जानकरघुनन्दनौ ॥ ४ ॥
मुखेषु वेधसो वाणीं विहरन्तीभुपास्महे ।
विडम्बयन्तीमब्जेषु क्रीडन्तीं कमलालयाम् ॥ ५॥
वन्दे कविं तं प्रथमं निपतन्तीं त्रिविष्टपात् ।
भागीरथीमिव हरो भारती वहति स्म यः ॥ ६॥
भजे पराशरसुतं पञ्चमं वदनं विधेः ।
उदभून्निगमो यस्मात् पञ्चमो भारतात्मना ॥ ७ ॥
 
*पश्चाननः शिवः सिंहृव । २ या पार्वतीस्कन्दयोराश्रयः, अथच पर्वतभूमिर्गुहा बायो यस्य सः ।