This page has not been fully proofread.

अथ सप्तमः सर्गः ॥
 
अथाधिभूरुत्तरकोसलानां
 
तल्पे शयानः शरदभ्रशुभ्रे ।
वैतालिकैरञ्चितवाग्विलासैः
 
प्रबोधितोऽभूत् क्षणदावसाने ॥ १ ॥
 
धरामरुत्वन् ! विरता निशाभू-
निद्रामिमामक्षिगतां जहीहि ।
 
प्रतीक्षमाणा कमलालया ते
 
विलोचनाम्भोजविकासमास्ते ॥ २ ॥
 
पतिष्यतीन्दौ सति तारकाभि-
रन्तर्हितं चन्द्रिकयापयातम् ।
शान्तं निशा मीलितमुत्पलिन्या
 
क्व भर्तुरात सुखमाश्रितानाम् ॥ ३ ॥
रथाङ्गयूनां विरहाकुलानां
बाष्पेण निःश्वासमरुद्भवेन ।
किं प्रापितो धूसरतां प्रचेतो-
हरिद्वधूदर्पण एष चन्द्रः ॥ ४ ॥
 
यस्मिन्नसंकीर्णतया प्रसिद्धि-
स्वस्य दीर्घस्य तथा प्लुतस्य ।
 
स श्रूयते सम्प्रति वासतेयी-
विरामशंसी पततो विरावः ॥ ५ ॥