This page has not been fully proofread.

पत्रः सर्गः
 
मरुतहंसमभृत् कमलइयं
 
वपुपि नर्मविशेषपुषि स्त्रियाः ॥ ७० ॥
 
त्वमसि मे कलभाषिणि ! जीवितं
 
त्वमसि में नयनद्वयचन्द्रिका ।
 
त्वमसि मे निधिसम्पदिति प्रिय-
वटुगिरा समुढं विदधे वधूम् ॥ ७१ ॥
 
सुरमिनिःश्वसितैग्धरामतै-
स्तनुरुचां निचयै रतिकूजितैः ।
 
युवतयो निबिडैः परिरम्भणैः
 
प्रणयिनामहरन् करणावलीम् ॥ ७२ ॥
 
विषमसायककेलिषु भूषणै-
विगलित रहितं कुटिलभ्रुवाम् ।
 
नखपदैः कमितुर्दशनक्षतै-
रखिलमङ्गमशोभत भूषितम् ॥ ७३ ॥
 
विपुलनिःश्वसितप्रचलत्कुचं
 
गलितभूषणमाकुलकुन्तलम् ।
 
श्रमपयः कणतारकितं रते-
रवसितौ वनितावपुराबभौ ॥ ७४ ॥
 
इत्थं स्मरोत्सवसुखं तरुणेषु साकं
 
कान्ताजनैरनुभवत्सु विभावरी सा ।
 
७६