This page has not been fully proofread.

७८
 
जानकीपरिणये
 
रतिपतेरपि विस्मयकारि यद्
विटजनैरपि यन्न विचारितम् ।
कविगिरां च न यत् खलु गोचर-
स्तदुद्भूद् वनिताभिकयो रतम् ॥ ६५ ॥
 
अपहृते रभसेन कुचांशुके
 
प्रणयिना सुदृशः करयोईयम् ।
शिशिरघर्मजलैः किल सात्त्विकैः
 
समभिषिक्तमिवाजनि तत्पदे ॥ ६६ ॥
 
लघु निरस्य पटं जघनस्थला-
न्निहितचक्षुषि मन्मथमन्दिरे ।
प्रियतमे स्वविलोचनमीलनं
 
समतनोत् तददर्शन मिच्छती ॥ ६७ ॥
 
विविधचुम्बनमाचरतो रतौ
 
प्रणयिनो मधुरत्वमुपागताः ।
 
वरतनोरधरादविशेषता-
मवयवा निखिलाः समशिश्रियन् ॥ ६८ ॥
 
विरचिता इव शर्करया सुधा-
रसचिरस्त्रपिता इव सुध्रुवः ।
 
अवयवाः सुरते परिचुम्बिता
 
विदधिरे दयितस्य न सौहितीम् ॥ ६९ ॥
 
जलधेरैः स्थगितं शशिमण्डलं
 
नटनशालि युगं च रथाङ्गयोः ।