This page has not been fully proofread.

पष्टः सर्गः ।
 
प्रणयराशिमिव द्रवतां गतं
 
मधु वधूरभिकाः समपाययन् ॥ ५९ ॥
 
कलितहासमहेतु चरन्मुहुः-
स्खलितमञ्जुलमस्फुटमालपत् ।
 
मधुमदे सति यौवतमाबभौ
 
पुनरिवागतरौशवचेष्टितम् ॥ ६० ॥
 
मदभरेऽभ्युदिते मधुसेवया
 
नयनयोर्युगलं कुटिलभ्रुवाम् ।
अजनि घूर्णनवद् वपुषा समं
 
निबिडरागमभून्मनसा सह ॥ ६१ ॥
 
मधुरसद्रुतमृष्टघनत्रपा-
कलुषजालतया विशदे सति ।
 
अभजदनमुखीहृदयाम्बरे
 
झटिति रागभरो दृढलग्नताम् ॥ ६२ ॥
 
मधुरसेन हिमेन विलासिनोः
 
प्रविशतान्तरिवाहितसेचनः ।
 
निबिडया रहितः खलु तन्द्रया
 
प्रबुबुधे तरसा हृदयेशयः ॥ ६३ ॥
 
अधिगतान्युपधानसनाथतां
 
बहुपरिच्छदभाजि मृदूनि च ।
प्रणयिनो रभसाजन् समं
 
युवतिभिः शयनानि रिरंसवः ॥ ६४ ॥