This page has not been fully proofread.

७६
 
जानकीपरिणये
 
विमलतामभजद् भुवनं क्षणात्
कुमुदबन्धुमहःकतकार्पणात् ।
 
निबिडपङ्क इवास्य घनीभवन्
 
स्फुटमधः समलक्ष्यत भूतलम् ॥ ५४ ॥
 
भ्रमरसङ्गमशोभि विपाण्डरं
 
जलजमाकलयन्नवधीरितम् ।
 
उडुपतिर्विरराज सलाञ्छनो
 
दधदिवाङ्कभुवि क्षणदां प्रियाम् ॥ ५५ ॥
 
इति वियत्सरणौ शशिमण्डले
 
स्फुरति यामवतीमणिकुण्डले ।
तरुणसंसदभूत् सकुतूहला
 
युवतिभिः सममासवसेवने ॥ ५६ ॥
 
चषकमिन्दुमुखीवदनाभिधं
 
मणिमयाञ्चषकादपि कामिनाम् ।
 
अधिकमिष्टमभून्मधुसेवने
 
न किमकृत्रिमकृत्रिमयोर्भिदा ॥ ५७ ॥
 
मुखसुरं भवदीयमपेक्षते
 
वकुलभूरुह एष नितम्बिनि! ।
 
इति वदन्तमभीकमपाययद्
 
युवतिरिङ्गितविद् वदनासवम् ॥ ५८ ॥
 
विदलतः स्मरगाढविकर्षणाद्
 
रसमिव स्रुतमिक्षुशरासनात् ।