This page has not been fully proofread.

पटः सर्गः ।
 
दिनविरामनभस्यघनाघनै-
र्वियदरण्यतमालमहीरुहैः ।
स्मरधरापतिबन्धुरसिन्धुरै-
र्झटिति सन्तमसैरुद्भूयत ॥ ४९ ॥
 
युवतिभिर्विहिता दयितं प्रति
 
स्मितकटाक्षमुखा निजविभ्रमाः ।
 
समभवन् वनचन्द्रिकया समा-
स्तमास नेत्रनिरोधिनि जृम्भिते ॥ ५० ॥
 
जलनिघेर्जठरात् कुमुदोत्करैः
 
सह चकोरमनांसि विकासयन् ।
उदयति स्म विधुर्नलिनैः समं
 
निखिलचक्रमनांसि निमीलयन् ॥ ५१ ॥
 
मकुटतां प्रथमस्य महीभृतो
 
वदनतां हरिदिग्वनितामणेः ।
 
चषकतां पुनरुत्पिबसंहते-*
 
रवहदुत्पलिनीपतिमण्डलम् ॥ ५२ ॥
 
कुमुदिनीपरिषत्कुलदैवतैः
 
कमलिनीसदसामपमृत्युभिः ।
 
स्मरविलासविजृम्भणहेतुभिः
 
शशधरस्य विनिःसृतमंशुभिः ॥ ५३ ॥
 
* उत्पिबानां चकोराणां संहतेः ।
 
७५