This page has not been fully proofread.

जानकीपरिणये
 
स्फुटमुपासितया द्विजमण्डलै-
श्वरमया समभूयत सन्ध्यया ॥ ४३ ॥
 
पिशितकीटफलाङ्कुरतण्डुल-
प्रमुखभक्षणवन्ति यथोचितम् ।
 
सपदि सायमधिष्ठितमर्भकैः
 
खगकुलानि कुलायमशिश्रियन् ॥ ४४ ॥
 
चरमसानुमतः शिखराजवा-
जलनिधौ पतिते रविमण्डले ।
 
सरभसोच्चलितोदकशीकर-
भ्रममुडुप्रकरा विदधुर्दिवि ॥ ४५ ॥
 
भरितमुद्भटमन्दरघूर्णनो-
'चलितपायससैन्धवशीकरैः ।
 
गुरु विडम्बयति स्म वपुर्हरे-
रुडुकदम्बकरम्बितमम्बरम् ॥ ४६ ॥
 
अनिशसङ्गमशालि रथाङ्गयो-
विघटितं कलयन् मिथुनं मिथः ।
न खलु वेद्मि चिरं दिवसात्ययः
 
क्व नरके निपतिष्यति निर्दयः ॥ ४७ ॥
सरभसं समभूदाभिसारिका-
जनचिरन्तनपुण्यफलं तमः ।
 
जरठवारवधूपलितासिती-
करणसिद्धरसायन सेवनम् ॥ ४८ ॥