This page has not been fully proofread.

पष्टः सर्गः ।
 
अरुणतामधिपादमशिश्रियत्
 
परिणतौ दिवसस्य दिनेश्वरः ॥ ३८ ॥
 
निमिषदब्जविनिर्गतया रुचा
 
दृढतरं परिरब्ध इव क्षणात् ।
कमलबन्धुरभूद् दिवसाञ्चले
 
स्फुटजपाकुसुमस्तबकोपमः ॥ ३९ ॥
 
श्रुतिवधूपदपङ्कजयावकै-
विगलितैर्निजमण्डलखेलनात् ।
 
सपदि रञ्जितमूर्तिरिवाबभौ
 
दिनमणिर्दुतहाटकसन्निभः ॥ ४० ॥
 
मसृणिता घुसृणैरिव दिग्वधू-
गिरितटीः कुनटीभरिता इव ।
 
किसलयैश्छुरितानिव पादपान्
 
दिनमणेररुणाः किरणा व्यधुः ॥ ४१ ॥
 
विलपतो मिथुनस्य रथाङ्गयो-
र्विरहविह्वलतामभिवीक्षितुम् ।
 
दधदिवाक्षमतां दिवसेश्वरः
 
क्वचिददर्शनमाप दिनात्यये ॥ ४२ ॥
 
घुसृणयावकविद्रुमदाडिमी-
कुसुमपल्लवलोहितकश्रिया ।
 
३ कुनटी मनश्शिला ।