This page has not been fully proofread.

जानकीपरिणये
 
नभसि दुःखतरं विचरन्तु मा
दिनमणेस्तुरगा निजबन्धवः ।
 
इति चमूतुरगैः प्रहिता ध्रुवं
 
खुररजोमिषतः क्षितिरुच्चकैः ॥ ३३ ॥
 
करलसन्मुसलासिलताधनु:-
परिघतोमरशक्तिपरश्वधाः ।
 
दृढविशङ्कटकङ्कटधारिणः
 
412
 
प्रययुरुद्भटशौर्यभुजा भटाः ॥ ३४ ॥
 
विघटिताखिलपर्वतसन्धिनि
 
प्रसभकम्पितभूमितले बले ।
 
चलति भारनतैः फणमण्डलै-
र्भुवमधत्त कथञ्चन भोगिराट् ॥ ३५ ॥
 
विसृमरैरनुलोममरुञ्चल-
ध्वजपटप्रभवैः पवनैर्मुहुः ।
 
द्रुतविनीततरश्रमखेचरा
 
दशरथस्य चचाल वरूथिनी ॥ ३६ ॥
 
दशरथः समतीतमहापथो
 
वननदीतटमाप दिनात्यये ।
 
चरमसानुमतस्तटमंशुमा-
नपि विलय वियत्सरणीं ययौ ॥ ३७ ॥
 
विपुलतामधिजग्मुषि सन्ततं
 
त्रिदशवर्त्मनि सञ्चरणादिव ।