This page has not been fully proofread.

षष्ठः सर्गः ।
 
उदयभूमिधरोपरि सत्वरं
 
कुमुदिनीपतिबिम्बमिवोदितम् ॥ २७ ॥
 
उभयपार्श्वगते धरणीपते-
विलसतः स्म शुभे सितचामरे ।
 
निजभुजायुगलेन समार्जिते
 
तनुमती यशसी इव पाण्डरे ॥ २८ ॥
 
क्षितितलाद् द्रुतमुञ्चलिताम्बरे
 
प्रविललास परागपरम्परा ।
वसुमतीव नरेन्द्रवरूथिनी-
श्रियमिवेक्षितुमुच्चपदं गता ॥ २९ ॥
 
मणिमयीः पिहिताः प्रतिसीरया
 
प्रसभपूरित (?)
पूरुषसंहतीः ।
अधिगताः शिबिका धरणीपते-
रुदचलन्नवरोधवधूजनाः ॥ ३० ॥
 
उपरि केतुभिरुल्लिखिताम्बरा-
श्रटुलचक्रविदारितभूतलाः ।
 
घनतरध्वनिरुद्धदिगन्तराः
 
समवलन्त शताङ्गचया रयात् ॥ ३१ ॥
 
भुजगलोकतमोभिरिवोद्गतै-
र्जलभरादिव खात् पतितैर्घनैः ।
 
अचलतामपहाय समागतैः
 
क्षितिधेरैरिव हस्तिचयैर्यये ॥ ३२ ॥