This page has not been fully proofread.

जानकीपरिणये
 
इति तदाननचन्द्रसुधां गिरं
श्रुतिपुटेन निपीय विशां पतिः ।
सरयमोमिति वाचमुदरिय-
ञ्जिगमिषामभजन्मिथिलां प्रति ॥ २२ ॥
 
अथ समाप्य विधिं निखिलं सुधी-
दिनमुखोचितमह्नि शुभंयुनि ।
जवनवाजियुतं रथमास्थितो
 
दशरथो मिथिलामभि निर्ययौ ॥ २३ ॥
 
जिगमिषोर्नरपालशिखामणे-
रुदचलत् पटहध्वनिरुच्चकैः ।
 
विघटिताचलसन्धिरनुक्षण-
G
 
क्षुभितसागरमन्द्ररवैधितः ॥ २४ ॥
 
रचितमक्षिपिधानमहिद्विषो
 
रजसि नेत्रनिरोधिनि जृम्भिते ।
 
अपिदधे किमहिप्रभुरुत्थिते
 
श्रुतिकटौ पटहारटिते दृशः ॥ २५ ॥
 
तदनु लाजचयैः समवाकिरन्
 
क्षितिपतिं किल पौरपुरन्ध्रयः ।
नभसि नीरदसंहतयो धरा-
धरमिवाभिनवैरुदबिन्दुभिः ॥ २६ ॥
 
उपरि भूमिपतेरृतमुद्धृतं
विशदमातपवारणमाबभौ ।