This page has not been fully proofread.

षष्ठः सर्गः ।
 
सरसि तडिलुलोकिषयाब्जिनी-
मुखमिवोन्नमितं जलजं बभौ ॥ १६ ॥
 
अथ सुखादनुभूय ऋतूत्सवा-
नुपवनेषु समं प्रमदाजनैः ।
क्षितिमहेन्द्रमवाप सभागतं
 
जनकराजपुरोहितभूसुरः ॥ १७ ॥
 
क्षितिभुजा विधिवद् विहितार्चनः
समुपविश्य सुखं कुशविष्टरे ।
 
इदमुदीरयति स्म तदाशयं
 
प्रमदमेदुरमाकलयन् द्विजः ॥ १८ ॥
 
अयि भवन्तमपृच्छदनामयं
 
जनकभूमिपतिर्जगतीपते ! ।
 
पुनरुदीरयति स्म च तद्वचः
 
शतमखस्य सखे ! श्रृणु मन्मुखात् ॥ १९ ॥
 
तनुभुवा भवतो धनुरैश्वरं
 
दुलयता विजिताजनि मे सुता ।
त्वमुभयोरमुयोरनुरूपयो-
रनुमनुष्व विवाहमिहागतः ॥ २० ॥
 
इति भवन्तमभाषत मैथिलो
 
नरपतिर्भवदागमनोत्सुकः ।
 
कलय तस्य मनोरथभूरुहं
 
सफलमागमनेन धरापते ! ॥ २१ ॥