This page has not been fully proofread.

जानकीपरिणये
 
सुरभिलो वकुलप्रसवोद्गल-
न्मधुरसस्त्रपितो मलयानिलः ।
 
रतिपतेः पथिकासुसमीरण-
ग्रहणदीपकभावमशिश्रियत् ॥ ११ ॥
 
प्रियजनेन चिरेण पिपासितं
विरतमञ्जुलवेणु चलनुवाम् ।
 
अधरबिम्बमजायत चुम्बन-
क्षममपेतहिमोपहितव्रणम् ॥ १२ ॥
 
प्रमदया खलु यः प्रियदुर्लभैः
 
स्फुटमपूजि यदा पदताडनैः ।
 
भुवि तदाप्रभृति प्रमदाञ्चितं
 
तरुमशोक इति प्रवदन्ति तम् ॥ १३ ॥
 
स किल धन्यतमस्तरुषु दुमो
 
युवजनेन चिरादभिकाङ्क्षितम् ।
 
सपदि यः समशिश्रियदङ्गना-
घनतरस्तन मण्डलघट्टनम् ॥ १४ ॥
 
विविधरत्नमयूख विराजित-
त्रिदिववर्त्मसु सासु सत्स्वपि ।
 
उपवनेषु रतिः समभून्मधौ
 
विकचपुष्पचयेषु विलासिनोः ॥ १५ ॥
 
भ्रमरलोचनमुत्थितमुच्चकैः
 
किमहितः शिशिरो गतवानिति ।