This page has not been fully proofread.

षष्ठः सर्गः ।
 
निबिडचोलविलासवतीस्तन-
स्खलनमन्दगतिर्मरुदाववौ ॥ ५ ॥
 
प्रचलपल्लवकेतुपटाञ्चला
 
भ्रमरराजिमनोहरतोरणाः ।
 
मधुझरोदकसिक्ततरा बभु-
मधुसमागमने वनवीधयः ॥ ६ ॥
 
मलयशैलभवेन नभस्वता
 
रचितगाढलसत्परिरम्भणा ।
 
समजनिष्ट लतावलिरुन्मिप-
न्मुकुलपालिमिषात् पुलकान्विता ॥ ७ ॥
 
तुबरचूतनवाङ्करचर्वणाद्
 
विशदकण्ठपुटा पिकमण्डली ।
श्रवणयोर्निजकोमलपञ्चम-
स्वरमिषेण ववर्ष सुधाझरीम् ॥ ८ ॥
 
मधुसखोऽधिगतो विपिनस्थलीं
 
कुसुमभारनमत्तरुमण्डलाम् ।
 
विशिखशून्यतरामिषुधिं चिराड्
 
विकचपुष्पशरैः समपूरयत् ॥ ९ ॥
 
मधुरसं परिपीय वनेषु तं
 
बहुतयान्तरमान्तमिवोद्भिरन् ।
 
मधुरनादमिषाद् भ्रमरोत्करः
 
कुसुमितां वनभूमिमभूषयत ॥ १० ॥