This page has not been fully proofread.

अथ षष्ठः सर्गः ।
अथ सुतां प्रणमय्य तपस्विने
जनकभूमिपतिस्तदनुज्ञया ।
दशरथानयनाय पुरोहितं
 
सपदि संग्रहितो* धरणीसुरम् ॥ १ ॥
 
स खलु यावदवाप न मेदिनी-
शतमखं जनकस्य पुरोहितः ।
उपहरन् कुसुमानि सिषेविषु-
स्तमिव तावद्भून्मधुवासरः ॥ २ ॥
 
समसमुन्मिषितैः कुसुमोत्करै-
र्मलयशैलभवैर्मरुदर्भकैः ।
 
श्रुतिसुखैरपि कोकिलकूजितै-
रनुमितस्तरसा समभून्मधुः ॥ ३ ॥
 
अधिगतस्य दिशं शमनास्थितां
 
स्फुटमुदेति निरूष्मलता मम ।
इति विचिन्त्य खरांशुरूपेक्ष्य ता-
मुदचलद् धनदस्य दिशं प्रति ॥ ४ ॥
 
मलयनिर्झरशीकरशीतलो
मुषितपाण्ड्यवधूकचसौरभः ।
 
* कर्तरि तः ।