This page has not been fully proofread.

पञ्चमः सर्गः ।
 
मधुरस्वरहंसकस्थितिः
 
परथा तत्र कुतो भवेत् सदा ॥ ६९ ॥
 
६५
 
केशादारभ्य पादावधि नलिनमुखीमेवमेषोऽनिमेषं
 
पश्यन् सानन्दमुञ्चैः स्मरपरवशतां चेतसा संश्रितोऽपि ।
कुर्वन्नाकारगुप्तिं रघुकुलतिलकः सन्निधाने महर्षे -
 
स्तस्थौ रोमाञ्चपुत्रैः समजनि विवृता चित्तवृत्तिस्तदीया ॥ ७० ॥
 
यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः
ख्यातं चक्रकविं सतीसमुदयैः संमानिताम्बाभिधा ।
सर्गोऽसौ जनकात्मजापरिणये नव्ये तदीये महा-
काव्ये चारुणि रुक्मिणीपरिणय भ्रातर्यभूत् पञ्चमः ॥ ७१ ॥
 
इति जानकीपरिणये
 
पञ्चमः सर्गः ।