This page has not been fully proofread.

जानकीपरिणये
 
दृढमात्मपटुत्वमक्षर-
च्युतके किं विववार यौवनम् ।
 
जघनं विदधे घनं यत-
स्तनुजाया मनुजाधिभूमणेः ॥ ६४ ॥
 
कुचयोर्युगमेव केवलं
 
न करोति स्म रथाङ्गविभ्रमम् ।
 
दुहितुर्धरणीबिडौजसो
 
विपुलं तच्च नितम्बमण्डलम् ॥ ६५ ॥
 
घनपङ्कभरेण रूषितो
 
यदि जम्बूसरिदम्बुखेलने ।
वलभित्करिणः करो व्रजेत्
 
सुदतीपीततरोरुचारुताम् ॥ ६६ ॥
 
मृदुशीतलमूरुरम्भयो-
ईयमाश्लिष्य दृढं चलध्रुवः ।
 
हरलोचनपावकार्चिषा
 
जनितं तापभरं जहौ स्मरः ॥ ६७ ॥
 
स्मरयौवनयोः सचापयोः
 
कुटिलभ्रूयुगलेन योषितः ।
 
अतनोदिषुधिद्वयश्रियं
 
युगलं वल्गु तदीयजङ्घयोः ॥ ६८ ॥
 
क्षितिपालसुतापदद्वयं
 
युगलं नीरजयोरसंशयम् ।