This page has not been fully proofread.

पञ्चमः सर्गः ।
 
असिता भुजगी तदुद्गता
 
नियतं रोमलतापदेशतः ॥ ५८ ॥
 
स्फुटया नवरोमरेखया
 
क्षितिजामध्यवियत्प्ररूढया ।
 
पिशुनेन निशाचरावली-
विपदोऽभूयत धूमकेतुना ॥ ५९ ॥
 
मणिभूषणभूषितानि य-
निखिलाङ्गानि निरीक्ष्य यौवनम् ।
 
अकरोदुदरं धराभुव-
स्त्रिवलीकाञ्चनभूषणाञ्चितम् ॥ ६० ॥
 
जगतो यदुवाच गौतमः
 
परमाणुं समवायिकारणम् ।
 
अणुता नियतं तदुद्भवे
 
समभूद् भूमिसुतावलग्नके ॥ ६१ ॥
 
मणिकाश्चिमयूखशैवले
 
वलिसोपानपथे पदार्पणात् ।
 
अपतञ्जनलोचनानि भू-
तनुभूनाभिसरोवरे मुहुः ॥ ६२ ॥
 
अभजन्त गभीरतास्पदे
 
प्रमदानाभिबिलेऽन्धकारताम् ।
 
अवलग्ननिबद्धमेखला
 
विलसज्जम्भभिदश्मरश्मयः ॥ ६३ ॥
 
६३