This page has not been fully proofread.

६२
 
जानकीपरिणये
 
विरराज शिरीषमालिका-
युगलीवाग्रनिबद्धपल्लवा ॥ ५३ ॥
 
अजनिष्ट करेण मेदिनी-
तनुजाया जलजं विनिर्जितम् ।
 
तमसेवत तन्निरन्तरं
 
ननु लेखात्मकतामतोऽवहत् ॥ ५४ ॥
 
मिथिलावनिपालकन्यका-
कुचपङ्केरुहकुङ्मलद्वयी ।
 
न कदापि विकासमासदद्
 
वदनेन्दोरिव सन्निधानतः ॥ ५५ ॥
 
अभिषेक्तुमनल्पविष्टप-
त्रयराज्ये रतिपुष्पसायकौ ।
 
नवयौवनाशिल्पिना ध्रुवं
 
कलितौ हेमघटौ वधूकुचौ ॥ ५६ ॥
 
धरणीमघवत्कुमारिका-
स्तनयोः सङ्गतयोरहर्निशम् ।
 
रजनीष्वपि चक्रवाकयो-
मिथुनं चेन्मिलितं समं भवेत् ॥ ५७ ॥
 
सुमुखीनाभिबिलेऽधियौवन म्
 
सुषमामृतपूरपूरिते
 
+ पद्मरेखात्मकत्वं देवात्मकत्वं च ।