This page has not been fully proofread.

निवेदना ।
 
अस्य जानकीपरिणयनाम्नः काव्यस्य प्रणेता अम्बा-लोकनाथ-
सुधियोः सूनुर्निखिलसामनिगमवेदिनः श्रीरामचन्द्रस्य पिता चक्रकविर्नामेति,
उपनयनात् प्रभृति कवित्वमस्य समुल्लसितमासीदिति, अस्य काव्यं पाण्ड्यभूपति-
चेरावनीन्द्र नीलकण्ठाध्वरिभिर्भृशं श्लाघितमिति, अनेनान्ये द्वे काव्ये रुक्मि
णीपरिणय - पार्वतीपरिणयाभिधाने निर्मिते इत्येतावदेतत्काव्यसर्गान्तिमपद्यां-
शेभ्यो * ज्ञायते ।
 
"रुक्मिणीजानकी गौरीद्रौपदीपरिणीतयः ।
कृतयो यस्य तस्यैषा कृतिश्चक्रकवेः शुभा ॥
 
इंति चित्ररत्नाकरस्य शब्दचित्रपरस्यारम्भे कथनात् चित्ररत्नाकर - द्रौपढ़ी-
परिणयावपि चक्रकविना प्रणीतावित्यवगम्यते । अत्र परामृष्टो नीलकण्ठा-
ध्वरी सुप्रसिद्धः शिवलीलार्णव - नीलकण्ठविजयादिकर्ता संभाव्यते । तेन :
तत्समानकालोऽयं चक्रकविर्भवन् कैस्ताब्दीयस्य सप्तदशशतकस्य पूर्वार्धे स्थित
इति शक्यमुन्नेतुम् ।
 
* यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथ: सुधीः ख्यातं चक्रकवि सतीसमुदयैः संमा-
निताम्बाभिधा ।
 
'यत्पुत्रो भुवि वेत्ति सामनिगमं श्रीरामचन्द्रोऽखिलम्' (८ सर्गः )
'सावित्र्या सममेव यं तिती वाग्देवता सादरम्' ( ३ सर्गः )
'पाण्डयमहीभुजा बहुमते नव्ये तदीये महाकाव्ये' (२ सर्गः )
'चेरावनीवासवश्लाघासीमनि' ( ४ सर्गः )
 
'श्रीनिलकण्ठावरिश्लाघासीमनि' (६ सर्गः )
 
'रुक्मिणीपरिणयभ्रातरि' (५ सर्गः )
 
'पार्वतीपरिणयभ्रातरि' (७ सर्ग:)
 
4 नीलकण्ठावरणस्तु कालः शिवलीलार्णवस्य निवेदनायां द्रष्टव्यः ।