This page has not been fully proofread.

पञ्चमः सर्गः ।
 
अमिलन्नधिकेन कुत्रचिद्
 
विजितानामुचितं हि मेलनम् ॥ ४८ ॥
 
अतनिष्ट समध्यमां सितां
 
*
 
वचनं केन वसुन्धराभुवः ।
 
अकरोच्च मरन्दमञ्जसा
 
निजमाधुर्यभरैरमध्यमम् ॥ ४९ ॥
 
महिलास्वरमाधुरीं यदा
 
कपटेनापजहार वल्लकी ।
 
सुधियः परिवादिनीं तदा-
प्रभृति क्षोणितले वदन्ति ताम् ॥ ५० ॥
 
कवयश्चिबुकं कथं धरा-
तनुजायाः कथयन्ति निस्तुलम् ।
 
अनिशं दधदात्मनस्तुलां
 
प्रतिबिम्बस्य च भासुरश्रियः ॥ ५१ ॥
 
रमणीरमणीयकण्ठतो
 
हृतलक्ष्मीः समयं विलोकयन् ।
 
ननु निर्गमनेषु भूभुजां
 
पुरतः क्रोशति कम्बुरुञ्चकैः ॥ ५२ ॥
 
युवतेः करभूषिताञ्चला
 
दधती कोमलतां भुजद्वयी ।
 
केन अज्ञातेन कारणेन, अथच ककारेण ।
 
६१