This page has not been fully proofread.

पञ्चमः सर्गः
 
अपि निर्भरविभ्रमावली-
सदनं तद् वदनं नतभ्रुवः ॥ ३८ ॥
 
भजता श्रवणावतंसतां
 
ध्रुवमन्ते वसता सदा दृशोः ।
 
सुषमाधिगता सुखादभू-
दसिताब्जेन धरातनूभुवः ॥ ३९ ॥
 
रमणीमणिकर्णपाशयो-
विरराज प्रचुरश्रियोईयी ।
 
युगली परिवेषयोरिव
 

 
स्फुटताटङ्कसुधांशुबिम्बयोः ॥ ४० ॥
 
सुदतीशुभकर्णकुण्डल-
स्फुरदुद्दाममणीगणश्रियः ।
 
अभजन्त कपोलमण्डली-
#मधि कर्णे व नु भूषणश्रियः ॥ ४१ ॥
 
मकरण बभौ मनःशिला-
कलितेन क्षितिभूकपोलभूः ।
 
मुकुरो मकराङ्कमुद्रितः
 
कथयन्मान्मथतामिवात्मनः ॥ ४२ ॥
 
वनितामणिनासिका ध्रुवं
 
शरधिः पुष्पशरस्य काञ्चनी ।
 
4 अघि कर्णे श्रोत्र इत्यर्थ: । 'अधिपरी अनर्थक' (१. ४.९३) इति अधेः कर्मप्र-
बचनीयता । अथच अधिकर्ण इत्येकं पदम् । अधिकम् ऋणं यस्य तस्मिन् ऋणग्रस्ते जने
इति तदर्थः ।