This page has not been fully proofread.

५८
 
जानकीपरिणये
 
भविता क्षयवृद्धिवर्जितः
 
स चतुर्थीगत एव चेत् सदा ॥ ३३ ॥
 
अपि यं प्रतिपद्वतं जनो
 
नमतीन्दु गतदोषमादरात् ।
 
यदलीकरुचेर्मलीमुचं
 
न चतुर्थीगतमीक्षते हि तम् ॥ ३४ ॥
 
वदनं वनिताशिखामणे-
विरराजान्वयि रेखया भ्रुवोः ।
 
दयितेन रतेः सुधाकरः
 
सुहृदा न्यस्तमिवोद्वहन् धनुः ॥ ३५ ॥
 
विललास यदानने सुधा-
सरसि भ्रूर्लसदञ्जनच्छविः ।
 
स्फुटमुच्चलितेव वीचिका
 
नवशैवालकुलेन सकुला ॥ ३६ ॥
 
क्षयमुज्झति नो न लक्ष्मणा
 
रहितो भाति न वा दिवानिशम् ।
 
अमुखावयवो मुखेन तत्
 
सदृश: स्यात् सुदृशः कथं शशी ॥ ३७ ॥
 
*
 
अजयत् स्वयमब्जयो ईयं
 
युगली लोचनयोर्न केवलम् ।
 
अब्जयो: पद्मयोः, अथच पद्मचन्द्रयोः ।