This page has not been fully proofread.

पञ्चमः सर्गः
 
अथ राजनिदेशतः सखी -
 
निकुरुम्बै: सममायती सभाम् ।
 
रघुनाथविलोचनातिथि-
मिथिलाधीशसुता बभूव सा ॥ २८ ॥
 
रुचिशालि पुरैव यद्वपुः
 
पुनरुक्ताभमभूत् सयौवनम् ।
 
स्वत एव हि रत्नमुल्लसद्-
द्युति शाणोल्लिखितं तु किं पुनः ॥ २९ ॥
 
निखिलावयवा धराभुवो
 
निजसौन्दर्यसुधापयोनिधौ ।
 
रघुवंशमणेरमज्जयन्
 

 
द्वयमक्ष्णोरनिमेषमादरात् ॥ ३० ॥
 
समता कथमस्तु यत्कचै-
रलिनां निन्दितचारुचामरैः ।
 
भजतां कुसुमौघमन्वहं
 
कुसुमौधेन सदा निषेवितैः ॥ ३१ ॥
 
अभिभूतमभूद् घनश्रिया
 
ननु यत्केशभरेण चामरम् ।
 
अत एव तदन्वितं हिया
 
चमरीष्पृष्ठत एव तिष्ठति ॥ ३२ ॥
 
दधतानिशमेकरूपतां
 
तुलितोऽयं निटिलेन चन्द्रमाः ।
 
१५७