This page has not been fully proofread.

५६
 
जानकीपरिणये
 
वितरिष्यति वीर्यशुल्कतो
 
मुदितोऽस्मै तनयां भवानपि ॥ २२ ॥
 
इति शंसति संसदि द्विजे
 
जनकश्छिन्न समस्तसंशयः ।
 
धनुरानयनाय पार्श्वगान्
 
पुरुषान् प्रेषयति स्म भूरिशः ॥ २३ ॥
 
अथ ते विशिखासनं धनं
 
धरणीपालसभे तदानयन् ।
 
सुरराजशरासनप्रभं
 
भुजगाधीश्वरभोगभीषणम् ॥ २४ ॥
 
धनुरुग्रतरं तद्ग्रही-
दनयच्च द्रुतमाततज्यताम् ।
विचकर्ष च विस्मयान्वितान्
 
विदधानो रघुनन्दनो जनान् ॥ २५ ॥
 
दलितात् तदमन्दघर्षणा-
द्धनुषोऽजायत भैरवो रवः ।
 
विपुलेषु दिगन्तदन्तिनां
 
श्रुतिरन्ध्रेषु पदं समर्पयन् ॥ २६ ॥
 
इति दर्शितवीर्यसम्पदं
 
रघुवीरं पुरभिच्छरासने ।
 
प्रशशंस तरङ्गितो मुदा
 
जनकः संसदि सत्यसङ्गरः ॥ २७ ॥