This page has not been fully proofread.

पञ्चमः सर्गः ।
 
निजधान शितेन ताटकां
 
विशिखेन प्रथमोऽयमेनयोः ।
 
अवधीच्च सुबाहुमम्बुधे-
लघु मारीचमपातयजले ॥ १७ ॥
 
निजपादपरागपावित-
प्रमदासङ्गतगौतमार्चितः ।
 
विलुलोकिषयैव धूर्जटे-
र्धनुषः सत्त्वनिधिः समागतः ॥ १८ ॥
 
अयि दर्शय चापमैश्वरं
 
रघुवीराय विदेहभूपते ! ।
 
तदसौ पुनराततज्यतां
 
भुजवीर्येण रयेण नेष्यति ॥ १९ ॥
 
धनुरस्तु तदैन्दुशेखरं
 
नरपालैरपरैर्दुरानमम् ।
 
तदयं स्ववशं करिष्यति
 
प्रसभं सर्पमिवाहितुण्डिकः ॥ २० ॥
 
धनुषोऽयममुक्तशैशवः
 
कथमारोपणमाचरिष्यति ।
 
इति चेदयि शङ्कसे श्रुता
 
न कथा वामनसंश्रया त्वया ॥ २१ ॥
 
भुजवीर्यममुष्य शाम्भवे
 
धनुषि व्यक्ततरं भविष्यति ।
 
५५