This page has not been fully proofread.

जानकीपरिणये
 
तरसा हृदयं विलीयते
 
दृढमस्मिन् परमात्मनीव मे ॥ ११ ॥
 
अपरो द्रुतहाटकप्रभो
 
विनयी कुञ्चितनीलकुन्तलः ।
 
वयसा गुणतः प्रमाणतः
 
सदृशस्तस्य चकास्ति नन्वसौ ॥ १२ ॥
 
विविधेषु कुलेषु जन्मना
 
कुलमाभ्यां किमभूदलङ्कृतम् ।
 
समसूत च कः पुमानिमौ
 
जलधिः कौस्तुभकल्पकाविव ॥ १३ ॥
 
भुवने पदयोः कयोरिमा-
वधातामभिधेयतामुभौ ।
 
भुवमाचरतां किमात्मनोः
 
पदविन्यासपवित्रितामिमाम् ॥ १४ ॥
 
इति संसदि तेन गाधिभू-
रनुयुक्तो धरणीबिडौजसा ।
 
अवदत् तमकडदो मुनिः
 
स्मितभासा जितचन्द्रदीधितिः ॥ १५ ॥
 
मनुवंशमणी महाभुजौ
 
तनयौ पङ्किरथावनीभुजः ।
 
प्रथितौ भुवि रामलक्ष्मणा-
विति सर्वास्त्रविशारदाविमौ ॥ १६ ॥