This page has not been fully proofread.

अथ पञ्चमः सर्गः ।
 
अथ राघवदर्शनोत्सुकाः
 
प्रमदाः सौधगवाक्षनिर्गतैः ।
 
विशिखा विदधुः सतोरणा
 
मिथिलायां निजलोचनांशुभिः ॥ १ ॥
 
किमिमौ मधुपु पसायकौ
 
किमिमौ निर्जरसां चिकित्सकौ ।
किमिमौ हरिणाङ्कभास्करा-
विति तौ पौरजनाः शशङ्किरे ॥ २ ॥
 
विधिवजनकप्रणीतया
 
समतुष्यत् स महर्षिरर्चया ।
 
सुजनैः स्वयमादरेण यत्
 
क्रियते तत् कुरुते मुदं सताम् ॥ ३ ॥
 
रघुनन्दनरूपदर्शन-
प्रभवानन्दनिमग्नमानसः ।
 
तमपृच्छदिदं धराधिभू-
रुपविष्टं कुशविटरे मुनिम् ॥ ४ ॥
 
मुनिपुङ्गव ! शंस काविमौ
 
सुखयन्तौ हृदयानि दारकौ ।
 
वियदध्वचरौ मणिक्षिता-
विह दसौ प्रतिबिम्बिताविव ॥ ५ ॥