This page has not been fully proofread.

जानकीपरिणये
अथ तत्र गौतमकलत्रसंश्रयां
 
मुनिपुङ्गवे कथयति स्वयं कथाम् ।
उदभूत् तपोधनवधूः शिलात्मता-
मपहाय राघवपदार्पणक्षणात् ॥ ६५ ॥
 
अजनिष्ट गौतमवधूविनिर्मितौ
 
रघुवीरपादरज एव कारणम् ।
 
सुधियो रजः सकलसर्गकारणं
 
प्रवदन्ति यद् भवति किं तदन्यथा ॥ ६६ ॥
 

 
रघुनाथपादरजसामनुग्रहा-
दखिलैः क्षणादवयवैः समुज्झितम् ।
 
उपलत्वमुच्चतरकर्कशस्तन-
इयमन्तरेण मुनियोषितोऽद्भुतम् ॥ ६७ ॥
 
द्रुतमागतेन निजमाश्रमं वधू-
सहितेन दीर्घतपसाभिपूजिताः ।
अभजन्त ते निखिलसम्पदां पदं
 
मिथिलाभिधां जनकपालितां पुरीम् ॥ ६८ ॥
 
उत्पन्ना वसुधातलादिह वरा सीताभिधा कन्यका
 
किञ्च ब्रह्मविदां शिखामणिरिह क्षोणीपतिर्वर्तते ।
अत्रास्ते खलु चण्डमन्तकरिपोः कोदण्डमित्यादराद्
 
रामस्तां नगरीमवैक्षत मणिप्रासादरुद्धाम्बराम् ॥६९॥