This page has not been fully proofread.

चतुर्थः सर्गः ।
लघु जहुरध्वरभुवं विनुहुता-
मवलोक्य दिव्यसरिता ज्वलन् रुपा ।
पिबति स्म तां क्षितिभुजा समीडितो
 
विजहौ पुनः श्रवणवर्त्सना क्षगात् ॥ ६० ॥
 
जलसेकशुद्धनिजदेहभस्मनो
नरपालनिर्मितनिवापकर्मणः ।
 
त्रिदिवातिथीन् सगरजान् विधाय ता-
नभजत् सुपर्वसरिदम्सां निधिम् ॥ ६१ ॥
 
पुरमाससाद सुरलोकवाहिनीं
 
तपसा विधाय नरलोकवाहिनीम् ।
रथमास्थितः सरभसं महारथ-
श्वरितार्थतामधिगतो भगीरथः ॥ ६२ ॥
 
इति राघवौ मुनिमुखेन्दुनिःसृतां
 
परिपीय निर्जरनदीकथासुधाम् ।
 
"वसता चिरादधिविशालमादरा-
दभिपूजितौ सुमतिना महीभुजा ॥ ६३ ॥
 
अभजन्त ते तदनु कञ्चिदाश्रमं
 
सुरराजदुश्चरितगूढसाक्षिणम् ।
 
शिथिलोटजं द्विरदभग्नपादपं
 
चिरलुप्तकुम्भजलसेकवल्लिकम् ॥ ६४ ॥
 
* 'बसता' इत्यस्य स्थाने 'मुदितौ इति पाठ्यं भाति ।
 
33