This page has not been fully proofread.

जानकीपरिणये
 
अवलोकयेऽद्य तमहं न कुत्रचि -
 
जवमुद्रटं जगति यः सहेत मे ॥ ५४ ॥
 
तदनु स्मयं शमयितुं विधिर्मरु-
त्सरितोऽवदत् क्षितिपते ! त्वमञ्जसा ।
 
तपसा प्रसादय कपर्दिनं स ते
 
फलितं करिष्यति मनोरथमम् ॥ ५५ ॥
 
इति चोदितो नरपतिः स्वयम्भुवा
 
तपसा प्रसन्नमकरोत् पिनाकिनम् ।
धरणीभुजे त्रिदिवसिन्धुधारणं
 
प्रभुणा च तेन दयया प्रतिश्रुतम् ॥ ५६ ॥
 
अपतत् सगर्वभरमभ्रवाहिनी
 
हरमूर्ध्नि तं झटिति हर्तुमुद्यता ।
समशिश्रियत् स्वयमदृश्यतां जटा-
पटले भ्रमीविदधती चिरं प्रभोः ॥ ५७ ॥
सुरनिम्नगां क्षितिपुरन्दरस्तुतो
 
विससर्ज बिन्दुसरसि स्मरान्तकः ।
अभवंस्ततः सपदि सप्त सिन्धवः
 
शरदिन्दुकुन्दघनसारबन्धवः ॥ ५८ ॥
 
अथ तासु वासवहरिद् विभूषिता
 
तिसृभिर्दिशा च तिसृभिः प्रचेतसः ।
रथमन्वगात् सपदि काचिदापगा
 
सजवं भगीरथमहीशतकतोः ॥ ५९ ॥