This page has not been fully proofread.

चतुर्थः सर्गः ।
अमरापगाजलनिवापतो गतिः
सुलभा भवत्पितृकुलस्य नान्यतः ।
भज यत्नमङ्ग! कुलदीप ! तत् स्वयं
सुरनिम्नगानयनकर्मण द्रुतम् ॥ ४९ ॥
इति वैनतेयवचसा जलाञ्जलौ
 
शमितादरः प्रतिनिवृत्य वाजिना ।
निरवर्तयन्निजपितामहक्रतुं
 
स महीं ररक्ष च वनं गते नृपे ॥ ५० ॥
स दिलीपनाम्नि तनुजे धुरं क्षिते-
निदधेऽभजच्च तपसे तपोवनम् ।
स भगीरथे निजसुते महारथे
 
विनिवेश्य भारमवनेवनं ययौ ॥ ५१ ॥
 
चरितं निशम्य सगरात्मजन्मनां
 
विनिवेश्य च क्षितिधुरां स मन्त्रिषु ।
अवतारणाय सरितः सुपर्वणां
 
चरितुं समारभत दुश्वरं तपः ॥ ५२ ॥
तपसा प्रसन्नमवनीपतिर्मरु-
त्तटिनीमयाचत सरोजविष्टरम् ।
स च वाहिनीमनुशशास तां पुन-
स्त्वमलङ्कुरुष्व तरसा रसामिति ॥ ५३ ॥
क्षितिपं जगाद सुरवाहिनी स्मयात्
 
त्वमितो निवर्तय मनो मनोरथात् ।