This page has not been fully proofread.

जानकीपरिणये
 
सहसा विचित्य ददृशुर्न कुत्रचित्
सगरात्मजा ययापहारिणौ ॥ ४३ ॥
अहरत् तुरङ्गमयमेप मोषक-
स्तुरगस्य वाजिनमसावचूचुरत् ।
इति जनुरध्वनि समस्ततो जनां-
वरतः क्रुधा सगरभूपतेः सुताः ॥ ४४ ॥
 
क्षितिमण्डले तमनवेक्ष्य वाजिनं
 
विचिचीषवस्तदनु ते रसातले ।
 
अवदारणं विदधिरे तथा क्षितेः
 
स्थितिमाशशाङ्करवि तद्यथा भजेत् ॥ ४५ ॥
 
अथ ते निमीलितविलोचनं शनै-
रवलोकयन्तमधिचित्तमीश्वरम् ।
 
विलुलोकिरे कपिलमुग्रतेजसं
 
तुरगं च तस्य विचरन्तमन्तिके ॥ ४६ ॥
 
अयमत्र तिष्ठति तुरङ्गतस्करो
 
लघु बध्यतां झटिति वध्यतामिति ।
 
कटुभाषिणः कपिलरोपपावके
 
सुमतेः सुताः शलभतां प्रपेदिरे ॥ ४७ ॥
समचोदयत् तद्नु वाजिलिप्सया
सगरोंऽशुमन्तमसमञ्जसम्भवम् ।
स च तान् निरर्राक्ष्य भुवि भस्मसात्कृतान्
सलिलं प्रदातुमुदयुङ्ग दुःखितः ॥ ४८ ॥