This page has not been fully proofread.

चतुर्थः सर्गः ।
 
अजनिष्ट तत्र किल धाम षण्मुखी-
परिपीतभव्यरस कृत्तिकास्तनम् ।
दनुजावलीदलन केलिसादरं
 
प्रणतार्तिभञ्जनकलाविशारदम् ॥ ३८ ॥
 
अथ राघवे कथमगाहत क्षितिं
 
विबुधापगेति विनयेन पृच्छति ।
 
उपचक्रमे निगदितुं मुनिर्मरु-
त्सरितोऽवतारचरितं यथाक्रमम् ॥ ३९ ॥
 
अजनिष्ट कश्चन पुरा धरापतिः
 
सगराभिधस्तरणिवंशभूषणम् ।
 
स विधित्सुरध्वरशिखामणि हयं
 
विससर्ज धन्विनिकुरुम्बरक्षितम् ॥ ४० ॥
 
अथ कीर्तिसञ्चयमिवावनीपते-
र्हरिदन्तरेषु कृतचङ्क्रमक्रमम् ।
 
हरति स्म धन्विनिवरलक्षितो
 
हयपुङ्गवं मखभुजामधीश्वरः ॥ ४१ ॥
 
हयरत्नमध्वनि विनष्टमञ्जसा
 
हयरक्षिणः क्षितिभुजे न्यवेदयन् ।
सच मार्गणाय तुरगस्य सत्वरं
 
निखिलेन पुत्रनिवहानचूचुदत् ॥ ४२ ॥
सरितः सरांसि विपिनानि पर्वतान्
 
विषयान् पुराणि विविधाश्च मेदिनीः ।
 
४५