This page has not been fully proofread.

जानकोपरिणये
 
अनुजग्मुरध्वनि सुदूरमाकुला
 
हरिणार्भकाः परिचिताश्चिरेण तम् ॥ ३२ ॥
 
विषयान् पुराणि विपिनानि पर्वतान्
 
सरितः सरांसि च विलमय ते जवात् ।
वसुपालितां वसुमतीं प्रपेदिरे
 
धनधान्यरत्नपशुजालसंकुलाम् ॥ ३३ ॥
 
कथयन् कुशान्वयचरित्रमद्भुतं
 
मुनिपुङ्गवो रघुवराय सादरम् ।
अचलाधिराजतनयामुदन्वतो
 
महिषीमत्राप मरुतां तरङ्गिणीम् ॥ ३४ ॥
 
अवदन्मुनिस्तदनु दिव्यवाहिनी-
चरितं बुभुत्सति नरेन्द्रनन्दने ।
 
तनयाद्वयं हिमवतोऽभवत् तयोः
 
प्रथमां नदीं सुरगणोऽनयद् दिवम् ॥ ३५ ॥
 
स्मरशासनाय तनयां कनीयसीं
 
प्रदिदेश हर्षभरितो महीधरः ।
 
शिवयोश्चरं मिलितयोः परस्परं
 
धरणी बभार खलु वीर्यमाहितम् ॥ ३६ ॥
 
ज्वलने क्षमा सपदि वोढुमक्षमा
 
विससर्ज तत् स च सुधान्धसां पुनः ।
निधे जवात् सरिति सा च तीरभू-
प्रभवे जहौ शरवणे हिरण्मये ॥ ३७ ॥