This page has not been fully proofread.

जानकीपरिणये
 
अथ तत्र गाधितनुभूस्तपोवने
विधिवत् समारभत कर्तुमध्वरम् ।
प्रथमानभव्यरसहव्यतर्पित-
त्रिदिवालयोज्झितसुधारसादरम् ॥ २२ ॥
 
अथ रामलक्ष्मणभुजाभिरक्षिते
 
महिते मुनेश्वलति यज्ञकर्मणि ।
वपुषा विडम्बितवलाहकैरभूत्
 
क्षणदाचरैर्निबिडमम्बरं क्षणात् ॥ २३ ॥
 
विततप्रयोगमाधेवेदि ऋत्विजां
 
कुलमाकुलं विद्धतो निशाचराः ।
क्षतजं पुरैव मुमुचू रघूद्रह-
प्रहितज्वल द्विशिखजालघट्टनात् ॥ २४ ॥
 
दधिरे मखोपकरणानि शोणतां
 
रुधिरेण तेन पतता नभस्स्थलात् ।
 
नयनाञ्चलानि नरपालबालयो-
रभजत् क्षणादरुणताममर्षतः ॥ २५ ॥
 
समधत्त यत पवनदैवतं दुरा-
सदमस्त्रमुद्भटजवं शरासने ।
रघुनन्दनः सपदि तेन ताटका-
तनुजं जले जलनिधेरपातयत् ॥ २६ ॥
 
अदहत् सुबाहुमपि पावकास्त्रतो
रजनीचरं सरभसं रघूद्रहः ।